Sukta 9.26
तं गावो अभ्यनूषत सहस्रधारमक्षितम् । इन्दुं धर्तारमा दिवः ॥
तं गावो॑ अ॒भ्य॑नूषत स॒हस्र॑धार॒मक्षि॑तम् । इन्दुं॑ ध॒र्तार॒मा दि॒वः ॥
táṃ gā́vo abhy ànūṣata sahásradhāram ákṣitam | índuṃ dhartā́ram ā́ diváḥ ||
To him the luminous cows have lowed in assent—him of a thousand streams, unfailing—Indu, the upholder who comes from the heaven of consciousness.
तम् । गावः॑ । अ॒भि । अ॒नू॒ष॒त॒ । स॒हस्र॑ऽधारम् । अक्षि॑तम् । इन्दु॑म् । ध॒र्तार॑म् । आ । दि॒वः ॥तम् । गावः । अभि । अनूषत । सहस्रधारम् । अक्षितम् । इन्दुम् । धर्तारम् । आ । दिवः ॥tam | gāvaḥ | abhi | anūṣata | sahasra-dhāram | akṣitam | indum | dhartāram | ā | divaḥ