Sukta 9.26
तममृक्षन्त वाजिनमुपस्थे अदितेरधि । विप्रासो अण्व्या धिया ॥
तम॑मृक्षन्त वा॒जिन॑मु॒पस्थे॒ अदि॑ते॒रधि॑ । विप्रा॑सो॒ अण्व्या॑ धि॒या ॥
tám amṛkṣanta vājínam upásthe áditeḥ ádhi | víprāso áṇvyā dhiyā́ ||
Him, the bringer of plenitude of force, the seers have cleansed upon the lap of Aditi, with the subtle discerning thought.
तम् । अ॒मृ॒क्ष॒न्त॒ । वा॒जिन॑म् । उ॒पस्थे॑ । अदि॑तेः । अधि॑ । विप्रा॑सः । अण्व्या॑ । धि॒या ॥तम् । अमृक्षन्त । वाजिनम् । उपस्थे । अदितेः । अधि । विप्रासः । अण्व्या । धिया ॥tam | amṛkṣanta | vājinam | upa-sthe | aditeḥ | adhi | viprāsaḥ | aṇvyā | dhiyā