Sukta 9.25
अरुषो जनयन्गिरः सोमः पवत आयुषक् । इन्द्रं गच्छन्कविक्रतुः ॥
अ॒रु॒षो ज॒नय॒न्गिर॒: सोम॑: पवत आयु॒षक् । इन्द्रं॒ गच्छ॑न्क॒विक्र॑तुः ॥
aruṣó janáyan gíraḥ sómaḥ pavate āyuṣák | índraṃ gácchan kavíkratuḥ ||
The ruddy-golden Soma flows, bringing forth the inspired utterances; life-giving, he goes to Indra, he whose will is that of the seer.
अ॒रु॒षः । ज॒नय॑न् । गिरः॑ । सोमः॑ । प॒व॒ते॒ । आ॒यु॒षक् । इन्द्र॑म् । गच्छ॑न् । क॒विऽक्र॑तुः ॥अरुषः । जनयन् । गिरः । सोमः । पवते । आयुषक् । इन्द्रम् । गच्छन् । कविक्रतुः ॥aruṣaḥ | janayan | giraḥ | somaḥ | pavate | āyuṣak | indram | gacchan | kavi-kratuḥ