Sukta 9.25
विश्वा रूपाण्याविशन्पुनानो याति हर्यतः । यत्रामृतास आसते ॥
विश्वा॑ रू॒पाण्या॑वि॒शन्पु॑ना॒नो या॑ति हर्य॒तः । यत्रा॒मृता॑स॒ आस॑ते ॥
viśvā́ rūpā́ṇy ā́viśan punānáḥ yā́ti haryatáḥ | yátrāmṛ́tāsa āsáte ||
Purifying himself, he enters into all forms and moves in the beloved delight, to that region where the deathless powers take their seat.
विश्वा॑ । रू॒पाणि॑ । आ॒ऽवि॒शन् । पु॒ना॒नः । या॒ति॒ । ह॒र्य॒तः । यत्र॑ । अ॒मृता॑सः । आस॑ते ॥विश्वा । रूपाणि । आविशन् । पुनानः । याति । हर्यतः । यत्र । अमृतासः । आसते ॥viśvā | rūpāṇi | ā-viśan | punānaḥ | yāti | haryataḥ | yatra | amṛtāsaḥ | āsate