Sukta 9.25
सं देवैः शोभते वृषा कविर्योनावधि प्रियः । वृत्रहा देववीतमः ॥
सं दे॒वैः शो॑भते॒ वृषा॑ क॒विर्योना॒वधि॑ प्रि॒यः । वृ॒त्र॒हा दे॑व॒वीत॑मः ॥
sáṃ deváiḥ śóbhate vṛ́ṣā kavír yónāv ádhi priyáḥ | vṛtrahā́ devavī́tamaḥ ||
He shines with the Gods, the strong Bull; the Seer, beloved, set upon the womb. A slayer of the Coverer, most desired in the gods’ delight—he makes the victory of Light secure.
सम् । दे॒वैः । शो॒भ॒ते॒ । वृषा॑ । क॒विः । योनौ॑ । अधि॑ । प्रि॒यः । वृ॒त्र॒ऽहा । दे॒व॒ऽवीत॑मः ॥सम् । देवैः । शोभते । वृषा । कविः । योनौ । अधि । प्रियः । वृत्रहा । देववीतमः ॥sam | devaiḥ | śobhate | vṛṣā | kaviḥ | yonau | adhi | priyaḥ | vṛtra-hā | deva-vītamaḥ