Sukta 9.24
प्र सोमासो अधन्विषुः पवमानास इन्दवः । श्रीणाना अप्सु मृञ्जत ॥
प्र सोमा॑सो अधन्विषु॒: पव॑मानास॒ इन्द॑वः । श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥
prá somā́so adhanviṣuḥ pávamānāsa índavaḥ | śrīṇā́nā apsú mṛ́ñjata ||
Forth the Soma-drops have sped, the purifying Indus: filling themselves, they cleanse themselves in the waters—making the streams of consciousness fit for the rite of Truth.
प्र । सोमा॑सः । अ॒ध॒न्वि॒षुः॒ । पव॑मानासः । इन्द॑वः । श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥प्र । सोमासः । अधन्विषुः । पवमानासः । इन्दवः । श्रीणानाः । अप्सु । मृञ्जत ॥pra | somāsaḥ | adhanviṣuḥ | pavamānāsaḥ | indavaḥ | śrīṇānāḥ | ap-su | mṛñjata