Sukta 9.23
सोमा असृग्रमाशवो मधोर्मदस्य धारया । अभि विश्वानि काव्या ॥
सोमा॑ असृग्रमा॒शवो॒ मधो॒र्मद॑स्य॒ धार॑या । अ॒भि विश्वा॑नि॒ काव्या॑ ॥
sómā asṛgram āśávo mádhor madasya dhā́rayā | abhí víśvāni kā́vyā ||
The swift Somas have flowed forth in a stream of honeyed ecstasy; they move upon all the inspired works, awakening the hidden poetic truths within.
सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ । मधोः॑ । मद॑स्य । धार॑या । अ॒भि । विश्वा॑नि । काव्या॑ ॥सोमाः । असृग्रम् । आशवः । मधोः । मदस्य । धारया । अभि । विश्वानि । काव्या ॥somāḥ | asṛgram | āśavaḥ | madhoḥ | madasya | dhārayā | abhi | viśvāni | kāvyā