Sukta 9.22
एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः । उतेदमुत्तमं रजः ॥
ए॒ते पृ॒ष्ठानि॒ रोद॑सोर्विप्र॒यन्तो॒ व्या॑नशुः । उ॒तेदमु॑त्त॒मं रज॑: ॥
eté pṛṣṭhā́ni ródasor viprayánto ví ānaśuḥ | utédám uttamáṃ rájaḥ ||
These, moving as inspired seers, have widely reached the heights of the two worlds; and they have reached this supreme luminous realm—the highest expanse.
ए॒ते । पृ॒ष्ठानि॑ । रोद॑सोः । वि॒ऽप्र॒यन्तः॑ । वि । आ॒न॒शुः॒ । उ॒त । इ॒दम् । उ॒त्ऽत॒मम् । रजः॑ ॥एते । पृष्ठानि । रोदसोः । विप्रयन्तः । वि । आनशुः । उत । इदम् । उत्तमम् । रजः ॥ete | pṛṣṭhāni | rodasoḥ | vi-prayantaḥ | vi | ānaśuḥ | uta | idam | ut-tamam | rajaḥ