Sukta 9.22
एते पूता विपश्चितः सोमासो दध्याशिरः । विपा व्यानशुर्धियः ॥
ए॒ते पू॒ता वि॑प॒श्चित॒: सोमा॑सो॒ दध्या॑शिरः । वि॒पा व्या॑नशु॒र्धिय॑: ॥
eté pūtā́ vipaścítaḥ somāso dádhyāśiraḥ | vípā ví ānaśur dhíyaḥ ||
These purified Soma-powers, clear-seeing, blended with curd, have widely attained the inspired thoughts; they move as seer-forces, opening the intelligence in many directions.
ए॒ते । पू॒ताः । वि॒पः॒ऽचितः॑ सोमा॑सः । दधि॑ऽआशिरः । वि॒पा । वि । आ॒न॒शुः॒ । धियः॑ ॥एते । पूताः । विपःचितः सोमासः । दधिआशिरः । विपा । वि । आनशुः । धियः ॥ete | pūtāḥ | vipaḥ-citaḥ | somāsaḥ | dadhi-āśiraḥ | vipā | vi | ānaśuḥ | dhiyaḥ