Sukta 9.22
त्वं सोम पणिभ्य आ वसु गव्यानि धारयः । ततं तन्तुमचिक्रदः ॥
त्वं सो॑म प॒णिभ्य॒ आ वसु॒ गव्या॑नि धारयः । त॒तं तन्तु॑मचिक्रदः ॥
tváṃ soma paṇíbhyā́ ā vásu gávyāni dhārayaḥ | tatáṃ tántum acikradaḥ ||
You, O Soma, bring the wealth of the luminous rays (gavyāni) back from the Paṇis; you hold it secure. You have made firm the stretched thread—the continuity of the work and the path of realization.
त्वम् । सो॒म॒ । प॒णिऽभ्यः॑ । आ । वसु॑ । गव्या॑नि । धा॒र॒यः॒ । त॒तम् । तन्तु॑म् । अ॒चि॒क्र॒दः॒ ॥त्वम् । सोम । पणिभ्यः । आ । वसु । गव्यानि । धारयः । ततम् । तन्तुम् । अचिक्रदः ॥tvam | soma | paṇi-bhyaḥ | ā | vasu | gavyāni | dhārayaḥ | tatam | tantum | acikradaḥ