Sukta 9.21
ऋभुर्न रथ्यं नवं दधाता केतमादिशे । शुक्राः पवध्वमर्णसा ॥
ऋ॒भुर्न रथ्यं॒ नवं॒ दधा॑ता॒ केत॑मा॒दिशे॑ । शु॒क्राः प॑वध्व॒मर्ण॑सा ॥
ṛbhúr ná rathyáṃ návaṃ dádhātā ketám ā́diśe | śukrā́ḥ pavadhvam árṇasā ||
Like the Ribhus fashioning a new chariot, set the sign (keta) for the revelation; O bright ones, purify yourselves with the flood—so the luminous powers are remade and directed, fit for the true journey of the soul.
ऋ॒भुः । न । रथ्य॑म् । नव॑म् । दधा॑त । केत॑म् । आ॒ऽदिशे॑ । शु॒क्राः । प॒व॒ध्व॒म् । अर्ण॑सा ॥ऋभुः । न । रथ्यम् । नवम् । दधात । केतम् । आदिशे । शुक्राः । पवध्वम् । अर्णसा ॥ṛbhuḥ | na | rathyam | navam | dadhāta | ketam | ādiśe | śukrāḥ | pavadhvam | arṇasā