Sukta 9.20
प्र कविर्देववीतयेऽव्यो वारेभिरर्षति । साह्वान्विश्वा अभि स्पृधः ॥
प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति । सा॒ह्वान्विश्वा॑ अ॒भि स्पृध॑: ॥
prá kavír devávītaye ’vyó vā́rebhir arṣati | sā́hvān víśvā abhí spṛ́dhaḥ ||
Forth the seer flows for the gods’ enjoyment—Soma, the sheep’s-wool-filtered, rushing with choicest streams—overpowering all resistances that oppose.
प्र । क॒विः । दे॒वऽवी॑तये । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । स॒ह्वान् । विश्वाः॑ । अ॒भि । स्पृधः॑ ॥प्र । कविः । देववीतये । अव्यः । वारेभिः । अर्षति । सह्वान् । विश्वाः । अभि । स्पृधः ॥pra | kaviḥ | deva-vītaye | avyaḥ | vārebhiḥ | arṣati | sahvān | viśvāḥ | abhi | spṛdhaḥ