Sukta 9.19
कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत् । याः शुक्रं दुहते पयः ॥
कु॒विद्वृ॑ष॒ण्यन्ती॑भ्यः पुना॒नो गर्भ॑मा॒दध॑त् । याः शु॒क्रं दु॑ह॒ते पय॑: ॥
kuvíd vṛṣaṇyántībhyaḥ punānáḥ gárbham ā́dadhat | yā́ḥ śukráṃ duhate páyaḥ ||
Might he, while purifying, place the embryo within the ardent, force-bearing powers—those who milk out the bright milk (the clarified luminous essence).
कु॒वित् । वृ॒ष॒न्यन्ती॑भ्यः । पु॒ना॒नः । गर्भ॑म् । आ॒ऽदध॑त् । याः । शु॒क्रम् । दु॒ह॒ते । पयः॑ ॥कुवित् । वृषन्यन्तीभ्यः । पुनानः । गर्भम् । आदधत् । याः । शुक्रम् । दुहते । पयः ॥kuvit | vṛṣanyantībhyaḥ | punānaḥ | garbham | ādadhat | yāḥ | śukram | duhate | payaḥ