Sukta 9.19
अवावशन्त धीतयो वृषभस्याधि रेतसि । सूनोर्वत्सस्य मातरः ॥
अवा॑वशन्त धी॒तयो॑ वृष॒भस्याधि॒ रेत॑सि । सू॒नोर्व॒त्सस्य॑ मा॒तर॑: ॥
avā́vaśanta dhītáyo vṛṣabhásyādhi rétasi | sūnór vatsásya mātáraḥ ||
The inspired thoughts have lowed in response over the Bull’s seed; the Mothers of the young calf (the nurturers of the new-born light) attend and foster it.
अवा॑वशन्त । धी॒तयः॑ । वृ॒ष॒भस्य॑ । अधि॑ । रेत॑सि । सू॒नोः । व॒त्सस्य॑ । मा॒तरः॑ ॥अवावशन्त । धीतयः । वृषभस्य । अधि । रेतसि । सूनोः । वत्सस्य । मातरः ॥avāvaśanta | dhītayaḥ | vṛṣabhasya | adhi | retasi | sūnoḥ | vatsasya | mātaraḥ