Sukta 9.18
परि यो रोदसी उभे सद्यो वाजेभिरर्षति । मदेषु सर्वधा असि ॥
परि॒ यो रोद॑सी उ॒भे स॒द्यो वाजे॑भि॒रर्ष॑ति । मदे॑षु सर्व॒धा अ॑सि ॥
pári yó ródasī ubhé sadyó vā́jebhir árṣati | mádeṣu sarva-dhā́ asi ||
He who at once streams around both worlds with plenitudes of force—thou art that Soma; in every rapture of delight thou art present in every way.
परि॑ । यः । रोद॑सी॒ इति॑ । उ॒भे इति॑ । स॒द्यः । वाजे॑भिः । अर्ष॑ति । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥परि । यः । रोदसी इति । उभे इति । सद्यः । वाजेभिः । अर्षति । मदेषु । सर्वधाः । असि ॥pari | yaḥ | rodasī iti | ubhe iti | sadyaḥ | vājebhiḥ | arṣati | madeṣu | sarva-dhāḥ | asi