Sukta 9.18
स शुष्मी कलशेष्वा पुनानो अचिक्रदत् । मदेषु सर्वधा असि ॥
स शु॒ष्मी क॒लशे॒ष्वा पु॑ना॒नो अ॑चिक्रदत् । मदे॑षु सर्व॒धा अ॑सि ॥
sá śuṣmī kalaśéṣv ā́ punānó acíkradat | mádeṣu sarva-dhā́ asi ||
He, full of vibrant force, purifying himself, has cried aloud as he comes into the jars; in every rapture of delight thou art present in every way.
सः । शु॒ष्मी । क॒लशे॑षु । आ । पु॒ना॒नः । अ॒चि॒क्र॒द॒त् । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥सः । शुष्मी । कलशेषु । आ । पुनानः । अचिक्रदत् । मदेषु । सर्वधाः । असि ॥saḥ | śuṣmī | kalaśeṣu | ā | punānaḥ | acikradat | madeṣu | sarva-dhāḥ | asi