Sukta 9.18
आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे । मदेषु सर्वधा असि ॥
आ यो विश्वा॑नि॒ वार्या॒ वसू॑नि॒ हस्त॑योर्द॒धे । मदे॑षु सर्व॒धा अ॑सि ॥
ā́ yó víśvāni vā́ryā vásūni hástayor dadhé | mádeṣu sarva-dhā́ asi ||
He who places in our hands all desirable riches—thou art that Soma; in every rapture of delight thou art present in every way.
आ । यः । विश्वा॑नि । वार्या॑ । वसू॑नि । हस्त॑योः । द॒धे । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥आ । यः । विश्वानि । वार्या । वसूनि । हस्तयोः । दधे । मदेषु । सर्वधाः । असि ॥ā | yaḥ | viśvāni | vāryā | vasūni | hastayoḥ | dadhe | madeṣu | sarva-dhāḥ | asi