Sukta 9.18
तव विश्वे सजोषसो देवासः पीतिमाशत । मदेषु सर्वधा असि ॥
तव॒ विश्वे॑ स॒जोष॑सो दे॒वास॑: पी॒तिमा॑शत । मदे॑षु सर्व॒धा अ॑सि ॥
táva víśve sa-jóṣaso devā́saḥ pītím ā́śata | mádeṣu sarva-dhā́ asi ||
All the gods, united in one consenting joy, have attained thy drinking; in every rapture of delight thou art present in every way.
तव॑ । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । पी॒तिम् । आ॒श॒त॒ । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥तव । विश्वे । सजोषसः । देवासः । पीतिम् । आशत । मदेषु । सर्वधाः । असि ॥tava | viśve | sa-joṣasaḥ | devāsaḥ | pītim | āśata | madeṣu | sarva-dhāḥ | asi