Sukta 9.18
त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः । मदेषु सर्वधा असि ॥
त्वं विप्र॒स्त्वं क॒विर्मधु॒ प्र जा॒तमन्ध॑सः । मदे॑षु सर्व॒धा अ॑सि ॥
tváṃ vipráḥ tváṃ kavír mádhu prá jātám ándhasaḥ | mádeṣu sarva-dhā́ asi ||
Thou art the seer and thou art the poet; thou art sweetness brought forth from the pressing-juice: in every rapture of delight thou art wholly present.
त्वम् । विप्रः॑ । त्वम् । क॒विः । मधु॑ । प्र । जा॒तम् । अन्ध॑सः । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥त्वम् । विप्रः । त्वम् । कविः । मधु । प्र । जातम् । अन्धसः । मदेषु । सर्वधाः । असि ॥tvam | vipraḥ | tvam | kaviḥ | madhu | pra | jātam | andhasaḥ | madeṣu | sarva-dhāḥ | asi