Sukta 9.18
परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः । मदेषु सर्वधा असि ॥
परि॑ सुवा॒नो गि॑रि॒ष्ठाः प॒वित्रे॒ सोमो॑ अक्षाः । मदे॑षु सर्व॒धा अ॑सि ॥
pári suvānáḥ giriṣṭhā́ḥ pavítre sómo akṣāḥ | mádeṣu sarva-dhā́ asi ||
Circling in his becoming, the mountain-born Soma has poured himself through the purifier; in all ecstasies and widenesses of delight thou art present in every way.
परि॑ । सु॒वा॒नः । गि॒रि॒ऽस्थाः । प॒वित्रे॑ । सोमः॑ । अ॒क्षा॒रिति॑ । मदे॑षु । स॒र्व॒ऽधाः । अ॒सि॒ ॥परि । सुवानः । गिरिस्थाः । पवित्रे । सोमः । अक्षारिति । मदेषु । सर्वधाः । असि ॥pari | suvānaḥ | giri-sthāḥ | pavitre | somaḥ | akṣāriti | madeṣu | sarva-dhāḥ | asi