Sukta 9.17
अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः । दधानाश्चक्षसि प्रियम् ॥
अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रव॑: । दधा॑ना॒श्चक्ष॑सि प्रि॒यम् ॥
abhí viprā́ anūṣata mūrdhán-yajñásya kārávaḥ | dádhānāś cákṣasi priyám ||
The illumined seers and the makers of the Word chant upward toward the head and summit of the sacrifice; bearing the beloved delight, they behold it in the seeing (inner vision).
अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । मू॒र्धन् । य॒ज्ञस्य॑ । का॒रवः॑ । दधा॑नाः । चक्ष॑ति । प्रि॒यम् ॥अभि । विप्राः । अनूषत । मूर्धन् । यज्ञस्य । कारवः । दधानाः । चक्षति । प्रियम् ॥abhi | viprāḥ | anūṣata | mūrdhan | yajñasya | kāravaḥ | dadhānāḥ | cakṣati | priyam