Sukta 9.17
अति त्री सोम रोचना रोहन्न भ्राजसे दिवम् । इष्णन्त्सूर्यं न चोदयः ॥
अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिव॑म् । इ॒ष्णन्त्सूर्यं॒ न चो॑दयः ॥
áti trī́ soma rocanā́ róhann na bhrājase dívaṃ | iṣṇánt sū́ryaṃ na códayaḥ ||
Passing beyond the three luminous worlds, O Soma, thou ascendest and shinest in heaven; urging like the Sun, thou drivest forward—impelling the inner light to its full course.
अति॑ । त्री । सो॒म॒ । रो॒च॒ना । रोह॑न् । न । भ्रा॒ज॒से॒ । दिव॑म् । इ॒ष्णन् । सूर्य॑म् । न । चो॒द॒यः॒ ॥अति । त्री । सोम । रोचना । रोहन् । न । भ्राजसे । दिवम् । इष्णन् । सूर्यम् । न । चोदयः ॥ati | trī | soma | rocanā | rohan | na | bhrājase | divam | iṣṇan | sūryam | na | codayaḥ