Sukta 9.16
त्वं सोम विपश्चितं तना पुनान आयुषु । अव्यो वारं वि धावसि ॥
त्वं सो॑म विप॒श्चितं॒ तना॑ पुना॒न आ॒युषु॑ । अव्यो॒ वारं॒ वि धा॑वसि ॥
tváṃ soma vipaścítaṃ tánā punānā́ ā́yuṣu | avyó vā́raṃ ví dhāvasi ||
Thou, O Soma, purifying thyself by thy own nature, runnest through the woollen strainer, making the life-powers more and more discerning and luminous.
त्वम् । सो॒म॒ । विपः॒ऽचित॑म् । तना॑ । पु॒ना॒नः । आ॒युषु॑ । अव्यः॑ । वार॑म् । वि । धा॒व॒सि॒ ॥त्वम् । सोम । विपःचितम् । तना । पुनानः । आयुषु । अव्यः । वारम् । वि । धावसि ॥tvam | soma | vipaḥ-citam | tanā | punānaḥ | āyuṣu | avyaḥ | vāram | vi | dhāvasi