Sukta 9.16
पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः । शूरो न गोषु तिष्ठति ॥
पु॒ना॒नो रू॒पे अ॒व्यये॒ विश्वा॒ अर्ष॑न्न॒भि श्रिय॑: । शूरो॒ न गोषु॑ तिष्ठति ॥
punānó rūpé avyáye víśvā arṣann abhí śríyaḥ | śūró na góṣu tiṣṭhati ||
Purifying himself in the imperishable form, he streams toward all the splendours; like a hero he stands firm among the Rays (cows), guarding and holding the luminous herds of knowledge.
पु॒ना॒नः । रू॒पे । अ॒व्यव्ये॑ । विश्वाः॑ । अर्ष॑न् । अ॒भि । श्रियः॑ । शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥पुनानः । रूपे । अव्यव्ये । विश्वाः । अर्षन् । अभि । श्रियः । शूरः । न । गोषु । तिष्ठति ॥punānaḥ | rūpe | avyavye | viśvāḥ | arṣan | abhi | śriyaḥ | śūraḥ | na | goṣu | tiṣṭhati