Sukta 9.15
एष हितो वि नीयतेऽन्तः शुभ्रावता पथा । यदी तुञ्जन्ति भूर्णयः ॥
ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था । यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥
eṣá hitó ví nīyate ’ntáḥ śubhrā́vatā pathā́ | yádī tuñjánti bhū́rṇayaḥ ||
This Soma, set in place, is led inward along the shining path, when the pressing forces drive and urge him into his true course.
ए॒षः । हि॒तः । वि । नी॒य॒ते॒ । अ॒न्तरिति॑ । शु॒भ्रऽव॑ता । प॒था । यदि॑ । तु॒ञ्जन्ति॑ । भूर्ण॑यः ॥एषः । हितः । वि । नीयते । अन्तरिति । शुभ्रवता । पथा । यदि । तुञ्जन्ति । भूर्णयः ॥eṣaḥ | hitaḥ | vi | nīyate | antariti | śubhra-vatā | pathā | yadi | tuñjanti | bhūrṇayaḥ