Sukta 9.15
एष पुरू धियायते बृहते देवतातये । यत्रामृतास आसते ॥
ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये । यत्रा॒मृता॑स॒ आस॑ते ॥
eṣá purū́ dhíyāyate bṛhaté devátātaye | yátrāmṛ́tāsa āsáte ||
This Soma moves with many awakenings of thought, toward the Vast and toward the divine plenitude—there where the deathless powers take their seat within us.
ए॒षः । पु॒रु । धि॒या॒ऽय॒ते॒ । बृ॒ह॒ते । दे॒वऽता॑तये । यत्र॑ । अ॒मृता॑सः । आस॑ते ॥एषः । पुरु । धियायते । बृहते । देवतातये । यत्र । अमृतासः । आसते ॥eṣaḥ | puru | dhiyāyate | bṛhate | deva-tātaye | yatra | amṛtāsaḥ | āsate