Sukta 9.15
एष धिया यात्यण्व्या शूरो रथेभिराशुभिः । गच्छन्निन्द्रस्य निष्कृतम् ॥
ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभि॑: । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥
eṣá dhiyā́ yāty áṇvyā śū́ro ráthebhir āśúbhiḥ | gácchann índrasya niṣkṛtám ||
This hero, by the subtle intelligence, goes with swift chariots, moving toward Indra’s open field—toward the liberated space of victorious force.
ए॒षः । धि॒या । या॒ति॒ । अण्व्या॑ । शूरः॑ । रथे॑भिः । आ॒शुऽभिः॑ । गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥एषः । धिया । याति । अण्व्या । शूरः । रथेभिः । आशुभिः । गच्छन् । इन्द्रस्य । निःकृतम् ॥eṣaḥ | dhiyā | yāti | aṇvyā | śūraḥ | rathebhiḥ | āśu-bhiḥ | gacchan | indrasya | niḥ-kṛtam