Sukta 9.14
परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा । वसूनि याह्यस्मयुः ॥
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा । वसू॑नि याह्यस्म॒युः ॥
pári divyā́ni marmṛśad víśvāni soma pā́rthivā | vásūni yāhy asmayúḥ ||
Touching and awakening all things—heavenly and earthly—O Soma, come to us desiring our being; bring the riches: the fullnesses of light and force.
परि॑ । दि॒व्यानि॑ । मर्मृ॑शत् । विश्वा॑नि । सो॒म॒ । पार्थि॑वा । वसू॑नि । या॒हि॒ । अ॒स्म॒ऽयुः ॥परि । दिव्यानि । मर्मृशत् । विश्वानि । सोम । पार्थिवा । वसूनि । याहि । अस्मयुः ॥pari | divyāni | marmṛśat | viśvāni | soma | pārthivā | vasūni | yāhi | asma-yuḥ