Sukta 9.14
अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम् । पृष्ठा गृभ्णत वाजिनः ॥
अ॒भि क्षिप॒: सम॑ग्मत म॒र्जय॑न्तीरि॒षस्पति॑म् । पृ॒ष्ठा गृ॑भ्णत वा॒जिन॑: ॥
abhí kṣípaḥ sám agmata márjayantīr iṣáspátim | pṛṣṭhā́ gṛbhṇata vājínaḥ ||
The swift energies have come together toward him, cleansing the Lord of plenitude; the forceful ones seize his back—supporting and bearing him onward.
अ॒भि । क्षिपः॑ । सम् । अ॒ग्म॒त॒ । म॒र्जय॑न्तीः । इ॒षः । पति॑म् । पृ॒ष्ठा । गृ॒भ्ण॒त॒ । वा॒जिनः॑ ॥अभि । क्षिपः । सम् । अग्मत । मर्जयन्तीः । इषः । पतिम् । पृष्ठा । गृभ्णत । वाजिनः ॥abhi | kṣipaḥ | sam | agmata | marjayantīḥ | iṣaḥ | patim | pṛṣṭhā | gṛbhṇata | vājinaḥ