Sukta 9.14
परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः । कारं बिभ्रत्पुरुस्पृहम् ॥
परि॒ प्रासि॑ष्यदत्क॒विः सिन्धो॑रू॒र्मावधि॑ श्रि॒तः । का॒रं बिभ्र॑त्पुरु॒स्पृह॑म् ॥
pári prā́siṣyadat kavíḥ síndhor ūrmā́v ádhi śritáḥ | kāráṃ bíbhrat puruspṛ́ham ||
The Seer-force moves all around, pressing forward; set upon the wave of the ocean-stream, it bears the creative utterance, rich in many desires—powers of fulfilled seeking.
परि॑ । प्र । अ॒सि॒स्य॒द॒त् । क॒विः । सिन्धोः॑ । ऊ॒र्मौ । अधि॑ । श्रि॒तः । का॒रम् । बिभ्र॑त् । पु॒रु॒ऽस्पृह॑म् ॥परि । प्र । असिस्यदत् । कविः । सिन्धोः । ऊर्मौ । अधि । श्रितः । कारम् । बिभ्रत् । पुरुस्पृहम् ॥pari | pra | asisyadat | kaviḥ | sindhoḥ | ūrmau | adhi | śritaḥ | kāram | bibhrat | puru-spṛham