Sukta 9.13
सोमः पुनानो अर्षति सहस्रधारो अत्यविः । वायोरिन्द्रस्य निष्कृतम् ॥
सोम॑: पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः । वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥
sómaḥ punānó arṣati sahásra-dhāro áty-aviḥ | vāyór índrasya niḥ-kṛtám ||
Soma, purifying himself, streams in a thousand currents, passing beyond the woolen filter; he goes to the prepared seat and offering-space of Vāyu and Indra within us.
सोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । स॒हस्र॑ऽधारः । अति॑ऽअविः । वा॒योः । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥सोमः । पुनानः । अर्षति । सहस्रधारः । अतिअविः । वायोः । इन्द्रस्य । निःकृतम् ॥somaḥ | punānaḥ | arṣati | sahasra-dhāraḥ | ati-aviḥ | vāyoḥ | indrasya | niḥ-kṛtam