Sukta 9.112
अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः । शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥
अश्वो॒ वोळ्हा॑ सु॒खं रथं॑ हस॒नामु॑पम॒न्त्रिण॑: । शेपो॒ रोम॑ण्वन्तौ भे॒दौ वारिन्म॒ण्डूक॑ इच्छ॒तीन्द्रा॑येन्दो॒ परि॑ स्रव ॥
aśvó vóḷhā sukhaṃ ráthaṃ hasanā́m upa-mantríṇaḥ | śépo rómaṇvantau bhedáu vā́rin maṇḍū́ka icchatī́ndrāyéndo pári srava ||
The Horse bears the easy-going chariot; the companioning voices call and answer in delight. The generative power with its stirring movements breaks open the obstructions; even the frog in the waters longs (for the rain/awakening). O Indu, flow around and forth for Indra.
अश्वः॑ । वोळ्हा॑ । सु॒खम् । रथ॑म् । ह॒स॒नाम् । उ॒प॒ऽम॒न्त्रिणः॑ । शेपः॑ । रोम॑ण्ऽवन्तौ । भे॒दौ । वाः । इत् । म॒ण्डूकः॑ । इ॒च्छ॒ति॒ । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥अश्वः । वोळ्हा । सुखम् । रथम् । हसनाम् । उपमन्त्रिणः । शेपः । रोमण्वन्तौ । भेदौ । वाः । इत् । मण्डूकः । इच्छति । इन्द्राय । इन्दो इति । परि । स्रव ॥aśvaḥ | voḷhā | sukham | ratham | hasanām | upa-mantriṇaḥ | śepaḥ | romaṇ-vantau | bhedau | vāḥ | it | maṇḍūkaḥ | icchati | indrāya | indo iti | pari | srava