Sukta 9.110
अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् । शर्याभिर्न भरमाणो गभस्त्योः ॥
अ॒भ्य॑भि॒ हि श्रव॑सा त॒तर्दि॒थोत्सं॒ न कं चि॑ज्जन॒पान॒मक्षि॑तम् । शर्या॑भि॒र्न भर॑माणो॒ गभ॑स्त्योः ॥
abhy e0bhi h ed 5br e1vas01 tatardithabcts e143 n e1 k e143 cid jana-p01d6anam e1k63itam d6 5b e1ry01bhir n e1 bh e1ram0147o g e1bhastyo25 d6
Again and again by your power of inspired hearing you pierce forth, like a spring inexhaustible for the people to drink. Not carried by arrows, you are borne in the handsthe bearers of your rays.
अ॒भिऽअ॑भि । हि । श्रव॑सा । त॒तर्दि॑थ । उत्स॑म् । न । कम् । चि॒त् । ज॒न॒ऽपान॑म् । अक्षि॑तम् । शर्या॑भिः । न । भर॑माणः । गभ॑स्त्योः ॥अभिअभि । हि । श्रवसा । ततर्दिथ । उत्सम् । न । कम् । चित् । जनपानम् । अक्षितम् । शर्याभिः । न । भरमाणः । गभस्त्योः ॥abhi-abhi | hi | śravasā | tatarditha | utsam | na | kam | cit | jana-pānam | akṣitam | śaryābhiḥ | na | bharamāṇaḥ | gabhastyoḥ