Sukta 9.11
स नः पवस्व शं गवे शं जनाय शमर्वते । शं राजन्नोषधीभ्यः ॥
स न॑: पवस्व॒ शं गवे॒ शं जना॑य॒ शमर्व॑ते । शं रा॑ज॒न्नोष॑धीभ्यः ॥
sá naḥ pavasva śáṃ gáve śáṃ jánāya śám árvate | śáṃ rā́jan óṣadhībhyaḥ ||
Purify yourself for us as peace and right well-being—for the Cow (illumined light), for the people (the embodied being), for the steed (the life-force); and as peace, O King, for the plants (the growing powers within).
सः । नः॒ । प॒व॒स्व॒ । शम् । गवे॑ । शम् । जना॑य । शम् । अर्व॑ते । शम् । रा॒ज॒न् । ओष॑धीभ्यः ॥सः । नः । पवस्व । शम् । गवे । शम् । जनाय । शम् । अर्वते । शम् । राजन् । ओषधीभ्यः ॥saḥ | naḥ | pavasva | śam | gave | śam | janāya | śam | arvate | śam | rājan | oṣadhībhyaḥ