Sukta 9.109
पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥
पव॑स्व सोम म॒हान्त्स॑मु॒द्रः पि॒ता दे॒वानां॒ विश्वा॒भि धाम॑ ॥
páv asva soma mahā́nt samudráḥ pitā́ devā́nāṃ víśvābhi dhā́ma ||
Purify thyself, O Soma, as a vast ocean; a father of the gods, encompassing all their seats of power—fill and uphold all the domains within us.
पव॑स्व । सो॒म॒ । म॒हान् । स॒मु॒द्रः । पि॒ता । दे॒वाना॑म् । विश्वा॑ । अ॒भि । धाम॑ ॥पवस्व । सोम । महान् । समुद्रः । पिता । देवानाम् । विश्वा । अभि । धाम ॥pavasva | soma | mahān | samudraḥ | pitā | devānām | viśvā | abhi | dhāma