Sukta 9.108
इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः । जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥
इन्द्र॑स्य॒ हार्दि॑ सोम॒धान॒मा वि॑श समु॒द्रमि॑व॒ सिन्ध॑वः । जुष्टो॑ मि॒त्राय॒ वरु॑णाय वा॒यवे॑ दि॒वो वि॑ष्ट॒म्भ उ॑त्त॒मः ॥
índrasya hā́rdi soma-dhā́nam ā́ viśa samudrám-iva síndhavaḥ | juṣṭó mitrā́ya váruṇāya vāyáve divó viṣṭambhá uttamáḥ ||
Enter, O Soma, into the heart of Indra as the establishing of the delight; as rivers enter the ocean. Accepted by Mitra and Varuṇa and by Vāyu, become the supreme support of the heaven within us.
इन्द्र॑स्य । हार्दि॑ । सो॒म॒ऽधान॑म् । आ । वि॒श॒ । स॒मु॒द्रम्ऽइ॑व । सिन्ध॑वः । जुष्टः॑ । मि॒त्राय॑ । वरु॑णाय । वा॒यवे॑ । दि॒वः । वि॒ष्ट॒म्भः । उ॒त्ऽत॒मः ॥इन्द्रस्य । हार्दि । सोमधानम् । आ । विश । समुद्रम्इव । सिन्धवः । जुष्टः । मित्राय । वरुणाय । वायवे । दिवः । विष्टम्भः । उत्तमः ॥indrasya | hārdi | soma-dhānam | ā | viśa | samudram-iva | sindhavaḥ | juṣṭaḥ | mitrāya | varuṇāya | vāyave | divaḥ | viṣṭambhaḥ | ut-tamaḥ