Sukta 9.108
स सुन्वे यो वसूनां यो रायामानेता य इळानाम् । सोमो यः सुक्षितीनाम् ॥
स सु॑न्वे॒ यो वसू॑नां॒ यो रा॒यामा॑ने॒ता य इळा॑नाम् । सोमो॒ यः सु॑क्षिती॒नाम् ॥
sá sunvé yó vasū́nāṃ yó rāyā́m ānetā́ yá iḷā́nām | sómo yáḥ su-kṣitī́nām ||
He is for the presser: the giver of the essential riches, the bringer of plenitude, the leader of the illumined offerings; Soma, who establishes the soul in a good and secure dwelling.
सः । सु॒न्वे॒ । यः । वसू॑नाम् । यः । रा॒याम् । आ॒ऽने॒ता । यः । इळा॑नाम् । सोमः॑ । यः । सु॒ऽक्षि॒ती॒नाम् ॥सः । सुन्वे । यः । वसूनाम् । यः । रायाम् । आनेता । यः । इळानाम् । सोमः । यः । सुक्षितीनाम् ॥saḥ | sunve | yaḥ | vasūnām | yaḥ | rāyām | ānetā | yaḥ | iḷānām | somaḥ | yaḥ | su-kṣitīnām