Sukta 9.104
सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् । अपादेवं द्वयुमंहो युयोधि नः ॥
सने॑मि कृ॒ध्य१॒॑स्मदा र॒क्षसं॒ कं चि॑द॒त्रिण॑म् । अपादे॑वं द्व॒युमंहो॑ युयोधि नः ॥
sánemi kṛ́dhy asmad ā́ rakṣásaṃ kaṃ cid atríṇam | ápādevaṃ dvayúm áṃho yuyodhi naḥ ||
Make for us a secure boundary; drive away from us any devouring Rakshasa. Ward off from us the godless, double-faced harm; fight it away from our path.
सने॑मि । कृ॒धि । अ॒स्मत् । आ । र॒क्षस॑म् । कम् । चि॒त् । अ॒त्रिण॑म् । अप॑ । अदे॑वम् । द्व॒युम् । अंहः॑ । यु॒यो॒धि॒ । नः॒ ॥सनेमि । कृधि । अस्मत् । आ । रक्षसम् । कम् । चित् । अत्रिणम् । अप । अदेवम् । द्वयुम् । अंहः । युयोधि । नः ॥sanemi | kṛdhi | asmat | ā | rakṣasam | kam | cit | atriṇam | apa | adevam | dvayum | aṃhaḥ | yuyodhi | naḥ