Sukta 9.104
समी वत्सं न मातृभिः सृजता गयसाधनम् । देवाव्यं मदमभि द्विशवसम् ॥
समी॑ व॒त्सं न मा॒तृभि॑: सृ॒जता॑ गय॒साध॑नम् । दे॒वा॒व्यं१॒॑ मद॑म॒भि द्विश॑वसम् ॥
samī́ vatsáṃ ná mātṛ́bhiḥ sṛjáta gaya-sā́dhanam | devāvyàṃ mádam abhí dví-śavasam ||
Release him together, like a calf to its mothers—this delight that accomplishes life and being. Let the divine, sheep’s-wool-filtered ecstasy press toward the one of double strength.
सम् । ई॒म् इति॑ । व॒त्सम् । न । मा॒तृऽभिः॑ । सृ॒जत॑ । ग॒य॒ऽसाध॑नम् । दे॒व॒ऽअ॒व्य॑म् । मद॑म् । अ॒भि । द्विऽश॑वसम् ॥सम् । ईम् इति । वत्सम् । न । मातृभिः । सृजत । गयसाधनम् । देवअव्यम् । मदम् । अभि । द्विशवसम् ॥sam | īm iti | vatsam | na | mātṛ-bhiḥ | sṛjata | gaya-sādhanam | deva-avyam | madam | abhi | dvi-śavasam