Sukta 9.103
परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः । व्यानशिः पवमानो वि धावति ॥
परि॒ सप्ति॒र्न वा॑ज॒युर्दे॒वो दे॒वेभ्य॑: सु॒तः । व्या॒न॒शिः पव॑मानो॒ वि धा॑वति ॥
pári saptír ná vāja-yúr devó devébhyaḥ sutáḥ | vi-ānaśíḥ pavamā́nō ví dhāvati ||
Circling like a steed that wins plenitude of force, the god Soma—pressed out for the gods—runs forth in many directions, distributing the widening enjoyment as he purifies himself.
परि॑ । सप्तिः॑ । न । वा॒ज॒ऽयुः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः । वि॒ऽआ॒न॒शिः । पव॑मानः । वि । धा॒व॒ति॒ ॥परि । सप्तिः । न । वाजयुः । देवः । देवेभ्यः । सुतः । विआनशिः । पवमानः । वि । धावति ॥pari | saptiḥ | na | vāja-yuḥ | devaḥ | devebhyaḥ | sutaḥ | vi-ānaśiḥ | pavamānaḥ | vi | dhāvati