Sukta 9.100
अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् । वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥
अ॒भी न॑वन्ते अ॒द्रुह॑: प्रि॒यमिन्द्र॑स्य॒ काम्य॑म् । व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तर॑: ॥
abhī́ navante adrúhaḥ priyám índrasya kā́myam | vatsáṃ na pū́rve ā́yuni jātáṃ rihanti mā́taraḥ ||
Toward it they press and bow—the undeceiving powers—toward what is dear and desired by Indra; as mothers lick a calf born in the first life, so they cherish and perfect it into its true form.
अ॒भि । न॒व॒न्ते॒ । अ॒द्रुहः॑ । प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् । व॒त्सम् । न । पूर्वे॑ । आयु॑नि । जा॒तम् । रि॒ह॒न्ति॒ । मा॒तरः॑ ॥अभि । नवन्ते । अद्रुहः । प्रियम् । इन्द्रस्य । काम्यम् । वत्सम् । न । पूर्वे । आयुनि । जातम् । रिहन्ति । मातरः ॥abhi | navante | adruhaḥ | priyam | indrasya | kāmyam | vatsam | na | pūrve | āyuni | jātam | rihanti | mātaraḥ