Sukta 9.10
अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः । वृष्णो हरस आयवः ॥
अप॒ द्वारा॑ मती॒नां प्र॒त्ना ऋ॑ण्वन्ति का॒रव॑: । वृष्णो॒ हर॑स आ॒यव॑: ॥
ápa dvā́rā matīnā́m pratnā́ ṛṇvanti kārávaḥ | vṛ́ṣṇo hárasa ā́yavaḥ ||
The ancient makers of the Word open out the doors of the inspired understandings; the seekers press forward toward the flaming energy of the Mighty One.
अप॑ । द्वारा॑ । म॒ती॒नाम् । प्र॒त्नाः । ऋ॒ण्व॒न्ति॒ । का॒रवः॑ । वृष्णः॑ । हर॑से । आ॒यवः॑ ॥अप । द्वारा । मतीनाम् । प्रत्नाः । ऋण्वन्ति । कारवः । वृष्णः । हरसे । आयवः ॥apa | dvārā | matīnām | pratnāḥ | ṛṇvanti | kāravaḥ | vṛṣṇaḥ | harase | āyavaḥ