Sukta 9.10
आपानासो विवस्वतो जनन्त उषसो भगम् । सूरा अण्वं वि तन्वते ॥
आ॒पा॒नासो॑ वि॒वस्व॑तो॒ जन॑न्त उ॒षसो॒ भग॑म् । सूरा॒ अण्वं॒ वि त॑न्वते ॥
āpānā́so vivásvato jánanta uṣásaḥ bhágam | sūrā́ áṇvaṃ ví tanvate ||
Drinking deep of Vivasvat’s radiance, they bring forth the Dawn’s portion of felicity; the luminous ones spread out the subtle thread—extending the fine path of light in the being.
आ॒पा॒नासः॑ । वि॒वस्व॑तः । जन॑न्तः । उ॒षसः॑ । भग॑म् । सूराः॑ । आ । अण्व॑म् । वि । त॒न्व॒ते॒ ॥आपानासः । विवस्वतः । जनन्तः । उषसः । भगम् । सूराः । आ । अण्वम् । वि । तन्वते ॥āpānāsaḥ | vivasvataḥ | janantaḥ | uṣasaḥ | bhagam | sūrāḥ | aṇvam | vi | tanvate