Sukta 9.10
प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः । सोमासो राये अक्रमुः ॥
प्र स्वा॒नासो॒ रथा॑ इ॒वार्व॑न्तो॒ न श्र॑व॒स्यव॑: । सोमा॑सो रा॒ये अ॑क्रमुः ॥
prá svānā́so ráthā iva árvanto ná śravasyávaḥ | sómāso rāyé akramuḥ ||
Forth they move, self-impelled, like chariots, like steeds eager for the inspired hearing; the Soma-powers stride out towards the plenitude of being (rāyī).
प्र । स्वा॒नासः॑ । रथाः॑ऽइव । अर्व॑न्तः । न । श्र॒व॒स्यवः॑ । सोमा॑सः । रा॒ये । अ॒क्र॒मुः॒ ॥प्र । स्वानासः । रथाःइव । अर्वन्तः । न । श्रवस्यवः । सोमासः । राये । अक्रमुः ॥pra | svānāsaḥ | rathāḥ-iva | arvantaḥ | na | śravasyavaḥ | somāsaḥ | rāye | akramuḥ