Sukta 9.1
तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश । स्वसारः पार्ये दिवि ॥
तमी॒मण्वी॑: सम॒र्य आ गृ॒भ्णन्ति॒ योष॑णो॒ दश॑ । स्वसा॑र॒: पार्ये॑ दि॒वि ॥
tam ī́m áṇvīḥ sa-maryé ā́ gṛbhṇánti yóṣaṇo dáśa | svásāraḥ pā́rye diví ||
Him the subtle-moving maidens seize and draw near in the common movement—ten sisters in the farther heaven: the many harmonizing powers that take hold of Soma and prepare his ascent in us.
तम् । ई॒म् । अण्वीः॑ । स॒ऽम॒र्ये । आ । गृ॒भ्णन्ति॑ । योष॑णः । दश॑ । स्वसा॑रः । पार्ये॑ । दि॒वि ॥तम् । ईम् । अण्वीः । समर्ये । आ । गृभ्णन्ति । योषणः । दश । स्वसारः । पार्ये । दिवि ॥tam | īm | aṇvīḥ | sa-marye | ā | gṛbhṇanti | yoṣaṇaḥ | daśa | svasāraḥ | pārye | divi