Sukta 9.1
त्वामच्छा चरामसि तदिदर्थं दिवेदिवे । इन्दो त्वे न आशसः ॥
त्वामच्छा॑ चरामसि॒ तदिदर्थं॑ दि॒वेदि॑वे । इन्दो॒ त्वे न॑ आ॒शस॑: ॥
tvā́m ácchā carāmasi tád íd árthaṃ divé-dive | índo tvé na ā́śasaḥ ||
To thee we move again and again, day after day, for this very aim: O Indu, in thee are our hopes—our will to the delight that fulfills the journey of consciousness.
त्वाम् । अच्छ॑ । च॒रा॒म॒सि॒ । तत् । इत् । अर्थ॑म् । दि॒वेऽदि॑वे । इन्दो॒ इति॑ । त्वे इति॑ । नः॒ । आ॒ऽशसः॑ ॥त्वाम् । अच्छ । चरामसि । तत् । इत् । अर्थम् । दिवेदिवे । इन्दो इति । त्वे इति । नः । आशसः ॥tvām | accha | carāmasi | tat | it | artham | dive-dive | indo iti | tve iti | naḥ | āśasaḥ