Sukta 8.97
या इन्द्र भुज आभरः स्वर्वाँ असुरेभ्यः । स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥
या इ॑न्द्र॒ भुज॒ आभ॑र॒: स्व॑र्वाँ॒ असु॑रेभ्यः । स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ॥
yā́ indra bhúja ā́bharaḥ svárvāṃ ásurebhyaḥ | stotā́ram ín maghavann asya vardhaya yé ca tvé vṛktá-barhiṣaḥ ||
The enjoyments and powers of possession that you brought, O Indra, rich in the Sun-world, from the Asuric forces—by these, O Bounteous One, increase the singer; and increase also those who, for you, have spread the sacred seat (made the right preparation).
याः । इ॒न्द्र॒ । भुजः॑ । आ । अभ॑रः । स्वः॑ऽवान् । असु॑रेभ्यः । स्तो॒तार॑म् । इत् । म॒घ॒ऽव॒न् । अ॒स्य॒ । व॒र्ध॒य॒ । ये । च॒ । त्वे इति॑ । वृ॒क्तऽब॑र्हिषः ॥याः । इन्द्र । भुजः । आ । अभरः । स्वःवान् । असुरेभ्यः । स्तोतारम् । इत् । मघवन् । अस्य । वर्धय । ये । च । त्वे इति । वृक्तबर्हिषः ॥yāḥ | indra | bhujaḥ | ā | abharaḥ | svaḥ-vān | asurebhyaḥ | stotāram | it | magha-van | asya | vardhaya | ye | ca | tve iti | vṛkta-barhiṣaḥ