Sukta 8.96
मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् । मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम् ॥
मन्ये॑ त्वा य॒ज्ञियं॑ य॒ज्ञिया॑नां॒ मन्ये॑ त्वा॒ च्यव॑न॒मच्यु॑तानाम् । मन्ये॑ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये॑ त्वा वृष॒भं च॑र्षणी॒नाम् ॥
mánye tvā yajñíyaṃ yajñíyānāṃ mányé tvā cyávanam ácyutānām | mányé tvā sátvanām indra ketúṃ mányé tvā vṛ́ṣabhaṃ carṣaṇīnā́m ||
I hold you to be the true power of sacrifice among all sacrificial powers; I hold you to be the mover of what is otherwise immovable. I hold you, O Indra, to be the beacon of all strengths, the Bull of the peoples—he who leads the human races to victory.
मन्ये॑ । त्वा॒ । य॒ज्ञिय॑म् । य॒ज्ञिया॑नाम् । मन्ये॑ । त्वा॒ । च्यव॑नम् । अच्यु॑तानाम् । मन्ये॑ । त्वा॒ । सत्व॑नाम् । इ॒न्द्र॒ । के॒तुम् । मन्ये॑ । त्वा॒ । वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् ॥मन्ये । त्वा । यज्ञियम् । यज्ञियानाम् । मन्ये । त्वा । च्यवनम् । अच्युतानाम् । मन्ये । त्वा । सत्वनाम् । इन्द्र । केतुम् । मन्ये । त्वा । वृषभम् । चर्षणीनाम् ॥manye | tvā | yajñiyam | yajñiyānām | manye | tvā | cyavanam | acyutānām | manye | tvā | satvanām | indra | ketum | manye | tvā | vṛṣabham | carṣaṇīnām