Sukta 8.96
अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् । न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥
अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् । न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥
atí-viddhā vithuréṇa cid ástrā triḥ-saptá sā́nu sáṃ-hitā girīṇā́m | ná tád devó ná mártyas tuturyā́d yā́ni prá-vṛddho vṛ́ṣabhaś cakā́ra ||
Even weapons, pierced through by the violent shock, and the thrice-seven joined ridges of the mountains—none, neither god nor mortal, can overtake those deeds that the grown Bull has done.
अति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् । न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥अतिविद्धा । विथुरेण । चित् । अस्रा । त्रिः । सप्त । सानु । सम्हिता । गिरीणाम् । न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्रवृद्धः । वृषभः । चकार ॥ati-viddhā | vithureṇa | cit | asrā | triḥ | sapta | sānu | sam-hitā | girīṇām | na | tat | devaḥ | na | martyaḥ | tuturyāt | yāni | pra-vṛddhaḥ | vṛṣabhaḥ | cakāra