Sukta 8.96
अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः । अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥
अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा॑य॒ नक्त॒मूर्म्या॑: सु॒वाच॑: । अ॒स्मा आपो॑ मा॒तर॑: स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा॑य॒ सिन्ध॑वः सुपा॒राः ॥
asmā uṣāsa ātíranta yāmám indrā́ya náktam ū́rmyāḥ su-vā́caḥ | asmā́ ā́po mātáraḥ saptá tasthur nṛ́bhyas tárāya síndhavaḥ su-pā́rāḥ ||
For this soul, the Dawns have crossed beyond the night’s journey, bringing to Indra the well-spoken waves of inspiration. For this one, the Waters—seven Mothers—stand ready as rivers of a good passage, to carry the human being safely across.
अ॒स्मै । उ॒षसः॑ । आ । अ॒ति॒र॒न्त॒ । याम॑म् । इन्द्रा॑य । नक्त॑म् । ऊर्म्याः॑ । सु॒ऽवाचः॑ । अ॒स्मै । आपः॑ । मा॒तरः॑ । स॒प्त । त॒स्थुः॒ । नृऽभ्यः॑ । तरा॑य । सिन्ध॑वः । सु॒ऽपा॒राः ॥अस्मै । उषसः । आ । अतिरन्त । यामम् । इन्द्राय । नक्तम् । ऊर्म्याः । सुवाचः । अस्मै । आपः । मातरः । सप्त । तस्थुः । नृभ्यः । तराय । सिन्धवः । सुपाराः ॥asmai | uṣasaḥ | ā | atiranta | yāmam | indrāya | naktam | ūrmyāḥ | su-vācaḥ | asmai | āpaḥ | mātaraḥ | sapta | tasthuḥ | nṛ-bhyaḥ | tarāya | sindhavaḥ | su-pārāḥ